६.५७.३२

ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः ।
सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः ॥

पदच्छेदः

तेतद् (१.३)
प्रतस्थुर्प्रतस्थुः (√प्र-स्था लिट् प्र.पु. बहु.)
महात्मानोमहात्मन् (१.३)
बलैर्बल (३.३)
अप्रतिमैर्अप्रतिम (३.३)
वृताःवृत (√वृ + क्त, १.३)
सुरासुर (१.३)
इवामरावत्यांइव (अव्ययः)–अमरावती (७.१)
बलैर्बल (३.३)
अप्रतिमैर्अप्रतिम (३.३)
वृताःवृत (√वृ + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेप्र स्थुर्म हा त्मा नो
लैप्रति मैर्वृ ताः
सु रा वा रा त्यां
लैप्रति मैर्वृ ताः