६.६२.१४

क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ।
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः ॥

पदच्छेदः

क्रौञ्चबर्हिणवीणानांक्रौञ्च–बर्हिण–वीणा (६.३)
भूषणानांभूषण (६.३)
(अव्ययः)
निस्वनैःनिस्वन (३.३)
नादितान्यचलाभानिनादित (√नादय् + क्त, १.३)–अचल–आभ (१.३)
वेश्मान्यग्निर्वेश्मन् (२.३)–अग्नि (१.१)
ददाहददाह (√दह् लिट् प्र.पु. एक.)
सःतद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रौञ्चर्हि वी णा नां
भू णा नां निस्व नैः
नादि तान्य ला भानि
वे श्मा न्य ग्निर्द दा सः