६.६२.४१

तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ॥

पदच्छेदः

तद्तद् (१.१)
राक्षसबलंराक्षस–बल (१.१)
घोरंघोर (१.१)
भीमविक्रमपौरुषम्भीम–विक्रम–पौरुष (१.१)
ददृशेददृशे (√दृश् लिट् प्र.पु. एक.)
ज्वलितप्रासंज्वलित (√ज्वल् + क्त)–प्रास (१.१)
किङ्किणीशतनादितम्किङ्किणी–शत–नादित (√नादय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्राक्ष लं घो रं
भी विक्र पौरु षम्
दृ शेज्वलि प्रा सं
किङ्कि णी नादि तम्