६.६२.४२

हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ।
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ॥

पदच्छेदः

हेमजालाचितभुजंहेमन्–जाल–आचित (√आ-अञ्च् + क्त)–भुज (२.१)
व्यावेष्टितपरश्वधम्व्यावेष्टित (√व्या-वेष्ट् + क्त)–परश्वध (२.१)
व्याघूर्णितमहाशस्त्रंव्याघूर्णित (√व्या-घूर्ण् + क्त)–महत्–शस्त्र (२.१)
बाणसंसक्तकार्मुकम्बाण–संसक्त (√सम्-सञ्ज् + क्त)–कार्मुक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हे जा लाचिभु जं
व्या वेष्टिश्व धम्
व्या घूर्णि हा स्त्रं
बा संक्त कार्मु कम्