६.७३.२१

परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः ।
शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥

पदच्छेदः

परिघैश्चपरिघ (३.३)–च (अव्ययः)
गदाभिश्चगदा (३.३)–च (अव्ययः)
कुन्तैश्चकुन्त (३.३)–च (अव्ययः)
शुभदर्शनैःशुभ–दर्शन (३.३)
शतशश्चशतशस् (अव्ययः)–च (अव्ययः)
शतघ्नीभिर्शतघ्नी (३.३)
आयसैर्आयस (३.३)
अपिअपि (अव्ययः)
मुद्गरैःमुद्गर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रि घैश्च दा भिश्च
कु न्तैश्चशुर्श नैः
श्च घ्नीभि
रा सैपि मुद्ग रैः