६.७३.२०

शितशूलधराः शूलैरसिभिश्चासिपाणयः ।
शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः ॥

पदच्छेदः

शितशूलधराःशित (√शा + क्त)–शूल–धर (१.३)
शूलैर्शूल (३.३)
असिभिश्चासिपाणयःअसि (३.३)–च (अव्ययः)–असि–पाणि (१.३)
शक्तिभिःशक्ति (३.३)
शक्तिहस्ताश्चशक्ति–हस्त (१.३)–च (अव्ययः)
पट्टसैःपट्टिस (३.३)
पट्टसायुधाःपट्टिस–आयुध (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शि शू राः शू लै
सि भि श्चासि पा यः
क्ति भिःक्ति स्ताश्च
ट्ट सैःट्ट सायु धाः