६.७३.२३

अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ।
तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥

पदच्छेदः

अभिजघ्नुःअभिजघ्नुः (√अभि-हन् लिट् प्र.पु. बहु.)
समासाद्यसमासाद्य (√समा-सादय् + ल्यप्)
समन्तात्समन्तात् (अव्ययः)
पर्वतोपमम्पर्वत–उपम (२.१)
तेषाम्तद् (६.३)
अपिअपि (अव्ययः)
(अव्ययः)
संक्रुद्धश्चकारसंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)–चकार (√कृ लिट् प्र.पु. एक.)
कदनंकदन (२.१)
महत्महत् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भि घ्नुः मा साद्य
न्ता त्पर्व तो मम्
ते षापि सं क्रुद्ध
श्च का नं हत्