६.७७.२७

चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः ।
अन्तरिक्षेऽभिसंछन्ने न रूपाणि चकाशिरे ।
तमसा पिहितं सर्वमासीद्भीमतरं महत् ॥

अन्वयः

चापवेगप्रयुक्स्सैः discharging from the bow swiftly, बाणजालैः net of arrows, समन्ततः all over, अन्तरिक्षे the sky, अभिसम्पन्ने covered, रूपाणि object, न चकाशिरे could be seen

M N Dutt

In consequence of the sky being covered with networks of arrows all around, discharged powerfully from their bows, the forms (of objects) could not be discovered.

Summary

As they were discharging arrows from the bow swiftly, the arrows formed a net covering all over the sky and no object could be visible.

पदच्छेदः

चापवेगप्रमुक्तैश्चचाप–वेग–प्रमुक्त (√प्र-मुच् + क्त, ३.३)–च (अव्ययः)
बाणजालैःबाण–जाल (३.३)
समन्ततःसमन्ततः (अव्ययः)
अन्तरिक्षेअन्तरिक्ष (७.१)
ऽभिसंछन्नेअभिसंछन्न (√अभिसम्-छद् + क्त, ७.१)
(अव्ययः)
रूपाणिरूप (१.३)
चकाशिरेचकाशिरे (√काश् लिट् प्र.पु. बहु.)
तमसातमस् (३.१)
पिहितंपिहित (√पि-धा + क्त, १.१)
सर्वम्सर्व (१.१)
आसीद्आसीत् (√अस् लङ् प्र.पु. एक.)
भीमतरंभीमतर (१.१)
महत्महत् (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
चा वेप्र मु क्तैश्च बा जा लैः
न्त तःन्त रि क्षेऽभि सं न्ने
रू पाणि काशि रे सापि
हि तंर्व मा सी द्भी रं हत्