६.७७.८

अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि ।
रावणं वर्जयित्वा तु शेषमस्य बलं हतम् ॥

अन्वयः

रणमूर्थनि in the forefront of battle, पापे wicked, अस्मिन् in his, राक्षसे raksasas, विनिहते struck down, रावणम् Ravana, वर्जयित्वा leaving, अस्य his, शेषम् left, बलम् army, हतम् killed

Summary

"If this wicked Rakshasa is struck down, except Ravana all his army is killed."

पदच्छेदः

अस्मिन्इदम् (७.१)
विनिहतेविनिहत (√विनि-हन् + क्त, ७.१)
पापेपाप (७.१)
राक्षसेराक्षस (७.१)
रणमूर्धनिरण–मूर्धन् (७.१)
रावणंरावण (२.१)
वर्जयित्वावर्जयित्वा (√वर्जय् + क्त्वा)
तुतु (अव्ययः)
शेषम्शेष (१.१)
अस्यइदम् (६.१)
बलंबल (१.१)
हतम्हत (√हन् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिन्विनि ते पा पे
राक्ष से मूर्धनि
रा णंर्ज यि त्वातु
शेस्य लं तम्