६.८०.५१

सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् ।
निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ॥

पदच्छेदः

सुपार्श्वोसुपार्श्व (१.१)
नामनाम (अव्ययः)
मेधावीमेधाविन् (१.१)
रावणंरावण (२.१)
राक्षसेश्वरम्राक्षसेश्वर (२.१)
निवार्यमाणंनिवार्यमाण (√नि-वारय् + शानच्, २.१)
सचिवैर्सचिव (३.३)
इदंइदम् (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु पा र्श्वो ना मे धा वी
रा णं राक्ष सेश्व रम्
नि वार्य मा णंचि वै
रि दंब्र वीत्