६.८१.३०

दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः ।
हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥

पदच्छेदः

दिवसस्याष्टमेदिवस (६.१)–अष्टम (७.१)
भागेभाग (७.१)
शरैर्शर (३.३)
अग्निशिखोपमैःअग्नि–शिखा–उपम (३.३)
हतान्येकेनहत (√हन् + क्त, १.३)–एक (३.१)
रामेणराम (३.१)
रक्षसांरक्षस् (६.३)
कामरूपिणाम्कामरूपिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि स्याष्ट मे भा गे
रैग्निशि खो मैः
ता न्ये के रा मे
क्ष सां का रूपि णाम्