६.८३.२४

असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैः ।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥

पदच्छेदः

असिभिःअसि (३.३)
पट्टसैःपट्टिस (३.३)
शूलैर्शूल (३.३)
गदाभिर्गदा (३.३)
मुसलैर्मुसल (३.३)
हलैःहल (३.३)
शक्तिभिस्तीक्ष्णधाराभिर्शक्ति (३.३)–तीक्ष्ण–धारा (३.३)
महद्भिःमहत् (३.३)
कूटमुद्गरैःकूटमुद्गर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सि भिःट्ट सैः शू लै
र्ग ला भिर्मु लैर्ह लैः
क्ति भि स्तीक्ष्ण धा राभि
र्म द्भिः कू मुद्ग रैः