६.८८.२५

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।
रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत् ॥

अन्वयः

वीरः heroic, लक्ष्मणः Lakshmana, तम् him, विमोचयितुम् to relieve, चापम् bow, आयम्य stretched, शक्तिहन्तम् having javelin in hand, रावणम् Ravana's, शरवर्षैः volley of arrows, अवाकिरत् covered

Summary

Heroic Lakshmana stretched his bow and showered volley of arrows and covered Ravana who held javelin in hand.

पदच्छेदः

तंतद् (२.१)
विमोक्षयितुंविमोक्षयितुम् (√वि-मोक्षय् + तुमुन्)
वीरश्चापम्वीर (१.१)–चाप (२.१)
आयम्यआयम्य (√आ-यम् + ल्यप्)
लक्ष्मणःलक्ष्मण (१.१)
रावणंरावण (२.१)
शक्तिहस्तंशक्ति–हस्त (२.१)
तंतद् (२.१)
शरवर्षैर्शर–वर्ष (३.३)
अवाकिरत्अवाकिरत् (√अव-कृ लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंवि मोक्षयि तुं वी
श्चा माम्यक्ष्म णः
रा णंक्ति स्तं तं
र्षै वाकि रत्