६.८९.१४

सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।
पूर्वं हि कथितो योऽसौ वीर जाम्बवता शुभः ॥

पदच्छेदः

सौम्यसौम्य (८.१)
शीघ्रम्शीघ्रम् (अव्ययः)
इतोइतस् (अव्ययः)
गत्वागत्वा (√गम् + क्त्वा)
शैलम्शैल (२.१)
ओषधिपर्वतम्ओषधि–पर्वत (२.१)
पूर्वंपूर्वम् (अव्ययः)
हिहि (अव्ययः)
कथितोकथित (√कथय् + क्त, १.१)
योयद् (१.१)
ऽसौअदस् (१.१)
वीरवीर (८.१)
जाम्बवताजाम्बवन्त् (३.१)
शुभःशुभ (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सौम्य शीघ्रमि तो त्वा
शै मोधिर्व तम्
पू र्वंहिथि तो यो ऽसौ
वी जाम्ब ताशु भः