६.९१.१०

वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।
शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ॥

पदच्छेदः

वज्रसारंवज्र–सार (२.१)
महानादंमहत्–नाद (२.१)
सर्वशत्रुनिबर्हणम्सर्व–शत्रु–निबर्हण (२.१)
शैलशृङ्गनिभैःशैल–शृङ्ग–निभ (३.३)
कूटैश्चितंकूट (३.३)–चित (√चि + क्त, २.१)
दृष्टिभयावहम्दृष्टि–भय–आवह (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्र सा रं हा ना दं
र्वत्रुनिर्ह णम्
शै शृङ्गनि भैः कू टै
श्चि तं दृष्टि या हम्