६.९१.९

एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।
प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत् ॥

पदच्छेदः

एतस्मिन्न्एतद् (७.१)
अन्तरेअन्तर (७.१)
क्रोधाद्क्रोध (५.१)
राघवस्यराघव (६.१)
तद् (१.१)
रावणःरावण (१.१)
प्रहर्तुकामोप्रहर्तु–काम (१.१)
दुष्टात्मादुष्ट (√दुष् + क्त)–आत्मन् (१.१)
स्पृशन्स्पृशत् (√स्पृश् + शतृ, १.१)
प्रहरणंप्रहरण (२.१)
महत्महत् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्नन्त रे क्रो धा
द्रास्य रा णः
प्रर्तु का मो दु ष्टा त्मा
स्पृन्प्र णं हत्