६.९६.२७

त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम ।
किं नु तत्कारणं येन रावणे मन्दतेजसः ॥

पदच्छेदः

तद् (१.३)
इमेइदम् (१.३)
सायकाःसायक (१.३)
सर्वेसर्व (१.३)
युद्धेयुद्ध (७.१)
प्रत्ययिकाप्रत्ययिक (१.३)
मममद् (६.१)
किं (१.१)
नुनु (अव्ययः)
तत्तद् (१.१)
कारणंकारण (१.१)
येनयद् (३.१)
रावणेरावण (७.१)
मन्दतेजसःमन्द–तेजस् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मे सा काः र्वे
यु द्धे प्रत्ययि का
किंनु त्का णं ये
रा णेन्द ते सः