६.९८.१४

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा ।
न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥

अन्वयः

यः he who, असुरेभ्यः from Asuras, सुरेभ्योवा or Suras, तथा so also, पन्नगेभ्योऽपि Uragas also, भयम् fear, न विजानाति not known, तस्य his, मानुषात् by human, इदम् thus, भयम् experienced fear

Summary

"He, who did not know fear from Asuras or Uragas, experienced fear from a mortal."

पदच्छेदः

असुरेभ्यःअसुर (५.३)
सुरेभ्योसुर (५.३)
वावा (अव्ययः)
पन्नगेभ्योपन्नग (५.३)
ऽपिअपि (अव्ययः)
वावा (अव्ययः)
तथातथा (अव्ययः)
(अव्ययः)
भयंभय (२.१)
योयद् (१.१)
विजानातिविजानाति (√वि-ज्ञा लट् प्र.पु. एक.)
तस्येदंतद् (६.१)–इदम् (१.१)
मानुषाद्मानुष (५.१)
भयम्भय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु रे भ्यःसु रे भ्यो वा
न्न गे भ्योऽपि वा था
यं योवि जा नाति
स्ये दं मानु षाद्भ यम्