७.१.७

प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ ।
समीपं राघवस्याशु प्रविवेश महात्मनः ॥

पदच्छेदः

प्रतिहारस्ततस्तूर्णम्प्रतिहार (१.१)–ततस् (अव्ययः)–तूर्णम् (अव्ययः)
अगस्त्यवचनाद्अगस्त्य–वचन (५.१)
अथअथ (अव्ययः)
समीपंसमीप (२.१)
राघवस्याशुराघव (६.१)–आशु (अव्ययः)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
महात्मनःमहात्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रति हास्त स्तूर्ण
स्त्य ना
मी पं रा स्याशु
प्रवि वे हात्म नः