७.१०.१

अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने ।
कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः ॥

M N Dutt

Then Rāma spoke to the ascetic, O Brahmana, how did those exceedingly mighty brothers carry on austerities in that forest; and what kind of penances was theirs?

पदच्छेदः

अथाब्रवीद्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
द्विजंद्विज (२.१)
रामःराम (१.१)
कथंकथम् (अव्ययः)
तेतद् (१.३)
भ्रातरोभ्रातृ (१.३)
वनेवन (७.१)
कीदृशंकीदृश (२.१)
तुतु (अव्ययः)
तदातदा (अव्ययः)
ब्रह्मंस्तपश्चेरुर्ब्रह्मन् (८.१)–तपस् (२.१)–चेरुः (√चर् लिट् प्र.पु. बहु.)
महाव्रताःमहत्–व्रत (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थाब्र वीद्द्वि जं रा मः
थं ते भ्रा रो ने
कीदृ शंतु दा ब्र ह्मं
स्त श्चे रुर्म हाव्र ताः