७.१०.२९

अथ प्रजापतिः प्रीतो विभीषणमुवाच ह ।
धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥

पदच्छेदः

अथअथ (अव्ययः)
प्रजापतिःप्रजापति (१.१)
प्रीतोप्रीत (√प्री + क्त, १.१)
विभीषणम्विभीषण (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
(अव्ययः)
धर्मिष्ठस्त्वंधर्मिष्ठ (१.१)–त्वद् (१.१)
यथायथा (अव्ययः)
वत्सवत्स (८.१)
तथातथा (अव्ययः)
चैतद् (अव्ययः)–एतद् (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र जा तिः प्री तो
वि भीमु वा
र्मि ष्ठ स्त्वं थात्स
था चैद्भ विष्यति