७.१०.३०

यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षण ।
नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥

पदच्छेदः

यस्माद्यस्मात् (अव्ययः)
राक्षसयोनौराक्षस–योनि (७.१)
तेत्वद् (६.१)
जातस्यामित्रकर्षणजात (√जन् + क्त, ६.१)–अमित्र–कर्षण (८.१)
नाधर्मे (अव्ययः)–अधर्म (७.१)
जायतेजायते (√जन् लट् प्र.पु. एक.)
बुद्धिर्बुद्धि (१.१)
अमरत्वंअमर–त्व (२.१)
ददामिददामि (√दा लट् उ.पु. )
तेत्वद् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा द्राक्ष यो नौ ते
जा स्या मित्रर्ष
ना र्मे जा ते बुद्धि
त्वं दामि ते