७.१०.३९

कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।
स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥

पदच्छेदः

कुम्भकर्णस्तुकुम्भकर्ण (१.१)–तु (अव्ययः)
तद्तद् (२.१)
वाक्यंवाक्य (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
स्वप्तुंस्वप्तुम् (√स्वप् + तुमुन्)
वर्षाण्यनेकानिवर्ष (२.३)–अनेक (२.३)
देवदेवदेवदेव (८.१)
ममेप्सितम्मद् (६.१)–ईप्सित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कुम्भ र्णस्तु द्वा क्यं
श्रु त्वाब्र वीत्
स्व प्तुं र्षाण्य ने कानि
दे दे मेप्सि तम्