७.१०.४१

कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।
कीदृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम् ॥

पदच्छेदः

कुम्भकर्णस्तुकुम्भकर्ण (१.१)–तु (अव्ययः)
दुष्टात्मादुष्ट (√दुष् + क्त)–आत्मन् (१.१)
चिन्तयामासचिन्तयामास (√चिन्तय् प्र.पु. एक.)
दुःखितःदुःखित (१.१)
कीदृशंकीदृश (१.१)
किं (१.१)
न्विदंनु (अव्ययः)–इदम् (१.१)
वाक्यंवाक्य (१.१)
ममाद्यमद् (६.१)–अद्य (अव्ययः)
वदनाच्च्युतम्वदन (५.१)–च्युत (√च्यु + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कुम्भ र्णस्तु दु ष्टा त्मा
चिन्त या मा दुःखि तः
कीदृ शं किंन्वि दं वा क्यं
माद्य नाच्च्यु तम्