७.१००.२५

तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर्दिवम् ।
जगाम त्रिदशैः सार्धं हृष्टैर्हृष्टो महामतिः ॥

पदच्छेदः

तथातथा (अव्ययः)
स्वर्गगतंस्वर्ग–गत (√गम् + क्त, २.१)
सर्वंसर्व (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
लोकगुरुर्लोकगुरु (१.१)
दिवम्दिव् (२.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
त्रिदशैःत्रिदश (३.३)
सार्धंसार्धम् (अव्ययः)
हृष्टैर्हृष्ट (√हृष् + क्त, ३.३)
हृष्टोहृष्ट (√हृष् + क्त, १.१)
महामतिःमहामति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था स्वर्ग तं र्वं
कृ त्वा लोगु रुर्दि वम्
गात्रि शैः सा र्धं
हृ ष्टै र्हृ ष्टो हा तिः