७.११.१०

अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।
वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम् ॥

पदच्छेदः

अथाब्रवीद्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
दशग्रीवोदशग्रीव (१.१)
मातामहम्मातामह (२.१)
उपस्थितम्उपस्थित (√उप-स्था + क्त, २.१)
वित्तेशोवित्तेश (१.१)
गुरुर्गुरु (१.१)
अस्माकंमद् (६.३)
नार्हस्येवं (अव्ययः)–अर्हसि (√अर्ह् लट् म.पु. )–एवम् (अव्ययः)
प्रभाषितुम्प्रभाषितुम् (√प्र-भाष् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थाब्र वीद्द ग्री वो
मा तामुस्थि तम्
वि त्ते शोगुरु स्मा कं
ना र्ह स्ये वंप्र भाषि तुम्