७.११.२३

तद्भवान्यदि साम्नैतां दद्यादतुलविक्रम ।
कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः ॥

M N Dutt

Therefore, O you of unrivalled prowess, if you should render the same (back), I shall be highly gratified; and righteousness also you will maintain.

पदच्छेदः

तद्तद् (२.१)
भवान्भवत् (१.१)
यदियदि (अव्ययः)
साम्नैतांसामन् (३.१)–एतद् (२.१)
दद्याद्दद्यात् (√दा विधिलिङ् प्र.पु. एक.)
अतुलविक्रमअतुल–विक्रम (८.१)
कृताकृत (√कृ + क्त, १.१)
भवेन्ममभवेत् (√भू विधिलिङ् प्र.पु. एक.)–मद् (६.१)
प्रीतिर्प्रीति (१.१)
धर्मश्चैवानुपालितःधर्म (१.१)–च (अव्ययः)–एव (अव्ययः)–अनुपालित (√अनु-पालय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्भ वान्यदि सा म्नै तां
द्यातु विक्र
कृ ता वेन्म प्रीति
र्ध र्म श्चै वानु पालि तः