७.११.२५

प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः ।
प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥

M N Dutt

Hearing these words from Prahasta, the god Vaiśravaņa, best of those skilled in speech, answered the former.

पदच्छेदः

प्रहस्ताद्प्रहस्त (५.१)
अपिअपि (अव्ययः)
संश्रुत्यसंश्रुत्य (√सम्-श्रु + ल्यप्)
देवोदेव (१.१)
वैश्रवणोवैश्रवण (१.१)
वचःवचस् (२.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
प्रहस्तंप्रहस्त (२.१)
तंतद् (२.१)
वाक्यंवाक्य (२.१)
वाक्यविशारदःवाक्य–विशारद (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र स्तापि सं श्रुत्य
दे वो वैश्र णो चः
प्रत्यु वाप्र स्तं तं
वा क्यं वाक्यवि शा दः