७.११.२८

एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ॥

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
धनाध्यक्षोधनाध्यक्ष (१.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
पितुर्पितृ (६.१)
अन्तिकम्अन्तिक (२.१)
अभिवाद्यअभिवाद्य (√अभि-वादय् + ल्यप्)
गुरुंगुरु (२.१)
प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
रावणस्यरावण (६.१)
यदीप्सितम्यद् (१.१)–ईप्सित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्त्वा ना ध्य क्षो
गापितुन्ति कम्
भि वाद्यगु रुं प्रा
रास्य दीप्सि तम्