७.११.३८

प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत् ।
शून्या सा नगरी लङ्का त्रिंशद्योजनमायता ।
प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय ॥

M N Dutt

The city of Lanka is (now) empty. Renouncing her, the bestower of riches has gone out of her. (Now) entering into her, along with us, do you there maintain your own religion.

पदच्छेदः

प्रहस्तस्तुप्रहस्त (१.१)–तु (अव्ययः)
दशग्रीवंदशग्रीव (२.१)
गत्वागत्वा (√गम् + क्त्वा)
सर्वंसर्व (२.१)
न्यवेदयत्न्यवेदयत् (√नि-वेदय् लङ् प्र.पु. एक.)
शून्याशून्य (१.१)
सातद् (१.१)
नगरीनगरी (१.१)
लङ्कालङ्का (१.१)
त्रिंशद्योजनम्त्रिंशत्–योजन (२.१)
आयताआयत (√आ-यम् + क्त, १.१)
प्रविश्यप्रविश्य (√प्र-विश् + ल्यप्)
तांतद् (२.१)
सहास्माभिःसह (अव्ययः)–मद् (३.३)
स्वधर्मंस्वधर्म (२.१)
तत्रतत्र (अव्ययः)
पालयपालय (√पालय् लोट् म.पु. )

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
प्र स्तस्तु ग्री वं त्वा र्वं
न्य वे यत् शू न्या सा री ङ्का
त्रिं द्यो मा ताप्र विश्य तां
हा स्मा भिःस्व र्मंत्र पा