७.१२.१०

इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।
भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् ॥

पदच्छेदः

इयंइदम् (१.१)
ममात्मजामद् (६.१)–आत्मजा (१.१)
राजंस्तस्याःराजन् (८.१)–तद् (६.१)
कुक्षौकुक्षि (७.१)
विवर्धिताविवर्धित (√वि-वर्धय् + क्त, १.१)
भर्तारम्भर्तृ (२.१)
अनयाइदम् (३.१)
सार्धम्सार्धम् (अव्ययः)
अस्याःइदम् (६.१)
प्राप्तोप्राप्त (√प्र-आप् + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
मार्गितुम्मार्गितुम् (√मार्ग् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यं मात्म जा रा जं
स्त स्याः कु क्षौविर्धि ता
र्ता या सार्ध
स्याः प्रा प्तोऽस्मि मार्गि तुम्