७.१२.९

तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः ।
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ॥

पदच्छेदः

तत्राहम्तत्र (अव्ययः)–मद् (१.१)
अरतिंअरति (२.१)
विन्दंस्तयाविन्दत् (√विद् + शतृ, ८.१)–तद् (३.१)
हीनःहीन (√हा + क्त, १.१)
सुदुःखितःसु (अव्ययः)–दुःखित (१.१)
तस्मात्तद् (५.१)
पुराद्पुर (५.१)
दुहितरंदुहितृ (२.१)
गृहीत्वागृहीत्वा (√ग्रह् + क्त्वा)
वनम्वन (२.१)
आगतःआगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रा तिं वि न्दं
स्त या ही नःसु दुःखि तः
स्मात्पु राद्दुहि रं
गृ ही त्वा मा तः