७.१२.२४

मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।
सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत् ॥

M N Dutt

Saramā was born on the shores of the lake, Mānasa, was swollen with water on the arrival of the rains, her mother, hearing her cries, affectionately said, Saro mā varddhata 'O lake, do not swell,' and from this circumstance, her name became Saramā.

पदच्छेदः

मात्रामातृ (३.१)
तुतु (अव्ययः)
तस्याःतद् (६.१)
कन्यायाःकन्या (६.१)
स्नेहनाक्रन्दितंस्नेहन–आक्रन्दित (√आ-क्रन्द् + क्त, १.१)
वचःवचस् (१.१)
सरोसरस् (१.१)
मामा (अव्ययः)
वर्धतेत्युक्तंवर्धत (√वृध् लोट् म.पु. द्वि.)–इति (अव्ययः)–उक्त (√वच् + क्त, १.१)
ततःततस् (अव्ययः)
सातद् (१.१)
सरमाभवत्सरमा (१.१)–अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा त्रातु स्याः न्या याः
स्ने हे ना क्रन्दि तं चः
रो मार्ध ते त्यु क्तं
तः सा मा वत्