७.१३.१६

तस्योपनीते पर्यङ्के वरास्तरणसंवृते ।
उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥

M N Dutt

The envoy addressed Dasagrīva, seated on a superb couch, graced with a costly coverlet.

पदच्छेदः

तस्योपनीतेतद् (६.१)–उपनीत (√उप-नी + क्त, ७.१)
पर्यङ्केपर्यङ्क (७.१)
वरास्तरणसंवृतेवर–आस्तरण–संवृत (√सम्-वृ + क्त, ७.१)
उपविश्यउपविश्य (√उप-विश् + ल्यप्)
दशग्रीवंदशग्रीव (२.१)
दूतोदूत (१.१)
वाक्यम्वाक्य (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यो नी ते र्य ङ्के
रास्त संवृ ते
विश्य ग्री वं
दू तो वाक्य थाब्र वीत्