७.१३.१८

साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः ।
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥

पदच्छेदः

साधुसाधु (१.१)
पर्याप्तम्पर्याप्त (√परि-आप् + क्त, १.१)
एतावत्एतावत् (१.१)
कृतश्चारित्रसंग्रहःकृत (√कृ + क्त, १.१)–चारित्र–संग्रह (१.१)
साधुसाधु (१.१)
धर्मेधर्म (७.१)
व्यवस्थानंव्यवस्थान (१.१)
क्रियतांक्रियताम् (√कृ प्र.पु. एक.)
यदियदि (अव्ययः)
शक्यतेशक्यते (√शक् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

साधु र्याप्त मे ता
त्कृ श्चा रित्र संग्र हः
साधु र्मेव्य स्था नं
क्रि तांदिक्य ते