७.१३.१९

दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।
देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे ॥

पदच्छेदः

दृष्टंदृष्ट (√दृश् + क्त, १.१)
मेमद् (६.१)
नन्दनंनन्दन (१.१)
भग्नम्भग्न (√भञ्ज् + क्त, १.१)
ऋषयोऋषि (१.३)
निहताःनिहत (√नि-हन् + क्त, १.३)
श्रुताःश्रुत (√श्रु + क्त, १.३)
देवानांदेव (६.३)
तुतु (अव्ययः)
समुद्योगस्त्वत्तोसमुद्योग (१.१)–त्वद् (५.१)
राजञ्राजन् (८.१)
श्रुतश्चश्रुत (√श्रु + क्त, १.१)–च (अव्ययः)
मेमद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ ष्टं मेन्द नंग्न
मृ योनि ताःश्रु ताः
दे वा नांतु मु द्यो
स्त्व त्तो राञ्श्रुश्च मे