७.१३.३४

विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे ।
नैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः ॥

M N Dutt

O messenger, I have learnt what you have uttered. Neither you nor this brother of mine by whom you have been despatched, (shall live); nor does the keeper of riches say what is for my good. And the fool makes me hear the circumstance of his having made friends with Mahesvara.

पदच्छेदः

विज्ञातंविज्ञात (√वि-ज्ञा + क्त, १.१)
तेत्वद् (६.१)
मयामद् (३.१)
दूतदूत (८.१)
वाक्यंवाक्य (१.१)
यत्यद् (२.१)
त्वंत्वद् (१.१)
प्रभाषसेप्रभाषसे (√प्र-भाष् लट् म.पु. )
नैव (अव्ययः)–एव (अव्ययः)
त्वम्त्वद् (१.१)
असिअसि (√अस् लट् म.पु. )
नैवासौ (अव्ययः)–एव (अव्ययः)–अदस् (१.१)
भ्रात्राभ्रातृ (३.१)
येनासियद् (३.१)–असि (√अस् लट् म.पु. )
प्रेषितःप्रेषित (√प्र-इषय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि ज्ञा तं ते या दू
वा क्यं त्त्वंप्र भा से
नैत्वसि नै वा सौ
भ्रा त्रा ये ना सि प्रेषि तः