७.१४.११

तैर्निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।
वर्षमाणैरिव घनैर्यक्षेन्द्रैः संनिरुध्यत ॥

पदच्छेदः

तैर्तद् (३.३)
निरुच्छ्वासवत्निरुच्छ्वास–वत् (अव्ययः)
तत्रतत्र (अव्ययः)
वध्यमानोवध्यमान (√वध् + शानच्, १.१)
दशाननःदशानन (१.१)
वर्षमाणैर्वर्षमाण (√वृष् + शानच्, ३.३)
इवइव (अव्ययः)
घनैर्घन (३.३)
यक्षेन्द्रैःयक्ष–इन्द्र (३.३)
संनिरुध्यतसंनिरुध्यत (√संनि-रुध् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तैर्नि रु च्छ्वा त्तत्र
ध्य मा नो शा नः
र्ष मा णैरि नै
र्य क्षे न्द्रैः संनि रुध्य