७.१४.१२

स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।
प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥

M N Dutt

And that high-souled one, raising up his mace resembling the rod itself of Time, entered into that army, despatching Yakşas to the abode of Yama.

पदच्छेदः

तद् (१.१)
दुरात्मादुरात्मन् (१.१)
समुद्यम्यसमुद्यम्य (√समुत्-यम् + ल्यप्)
कालदण्डोपमांकाल–दण्ड–उपम (२.१)
गदाम्गदा (२.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
ततःततस् (अव्ययः)
सैन्यंसैन्य (२.१)
नयन्नयत् (√नी + शतृ, १.१)
यक्षान्यक्ष (२.३)
यमक्षयम्यम–क्षय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दु रा त्मा मु द्यम्य
का ण्डो मां दाम्
प्रवि वे तः सै न्यं
न्य क्षान्यक्ष यम्