७.१४.१४

तैस्तु तस्य मृधेऽमात्यैर्महोदरशुकादिभिः ।
अल्पावशिष्टास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥

M N Dutt

And as the wind scatter clouds, the small remnant of Yaksa army was scattered by the redoubtable councillors (of Ravana) Mahodara, Suka, etc.

पदच्छेदः

तैस्तुतद् (३.३)–तु (अव्ययः)
तस्यतद् (६.१)
मृधेमृध (७.१)
ऽमात्यैर्अमात्य (३.३)
महोदरशुकादिभिःमहोदर–शुक–आदि (३.३)
अल्पावशिष्टास्तेअल्प–अवशिष्ट (√अव-शिष् + क्त, १.३)–तद् (१.३)
यक्षाःयक्ष (१.३)
कृताकृत (√कृ + क्त, १.३)
वातैर्वात (३.३)
इवाम्बुदाःइव (अव्ययः)–अम्बुद (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तैस्तुस्यमृ धे ऽमा त्यै
र्म होशु कादि भिः
ल्पा शि ष्टा स्ते क्षाः
कृ ता वा तैरि वाम्बु दाः