७.१४.१६

भयादन्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ।
निषेदुस्ते तदा यक्षाः कूला जलहता इव ॥

पदच्छेदः

भयाद्भय (५.१)
अन्योन्यम्अन्योन्य (२.१)
आलिङ्ग्यआलिङ्ग्य (√आ-लिङ्गय् + ल्यप्)
भ्रष्टशस्त्राभ्रष्ट (√भ्रंश् + क्त)–शस्त्र (१.३)
रणाजिरेरण–अजिर (७.१)
निषेदुस्तेनिषेदुः (√नि-सद् लिट् प्र.पु. बहु.)–तद् (१.३)
तदातदा (अव्ययः)
यक्षाःयक्ष (१.३)
कूलाकूला (१.३)
जलहताजल–हत (√हन् + क्त, १.३)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या न्योन्य मा लिङ्ग्य
भ्रष्ट स्त्रा णाजि रे
नि षे दु स्ते दा क्षाः
कू ला ता