७.१५.२९

ततो निर्जित्य तं राम धनदं राक्षसाधिपः ।
पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥

पदच्छेदः

ततोततस् (अव्ययः)
निर्जित्यनिर्जित्य (√निः-जि + ल्यप्)
तंतद् (२.१)
रामराम (८.१)
धनदंधनद (२.१)
राक्षसाधिपःराक्षस–अधिप (१.१)
पुष्पकंपुष्पक (२.१)
तस्यतद् (६.१)
जग्राहजग्राह (√ग्रह् लिट् प्र.पु. एक.)
विमानंविमान (२.१)
जयलक्षणम्जय–लक्षण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो नि र्जित्य तं रा
दं राक्ष साधि पः
पुष्प कंस्य ग्रा
वि मा नंक्ष णम्