७.१५.९

तं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम् ।
शक्तिभिस्ताडयामास तिसृभिर्यक्षपुंगवः ॥

M N Dutt

Then that foremost of Yakşas hit Daśānana with three darts as he was rushing in wrath.

पदच्छेदः

तंतद् (२.१)
क्रुद्धम्क्रुद्ध (√क्रुध् + क्त, २.१)
अभिधावन्तंअभिधावत् (√अभि-धाव् + शतृ, २.१)
युगान्ताग्निम्युगान्त–अग्नि (२.१)
इवोत्थितम्इव (अव्ययः)–उत्थित (√उत्-स्था + क्त, २.१)
शक्तिभिस्ताडयामासशक्ति (३.३)–ताडयामास (√ताडय् प्र.पु. एक.)
तिसृभिर्त्रि (३.३)
यक्षपुंगवःयक्ष–पुंगव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं क्रुद्धभि धा न्तं
यु गा न्ताग्निमि वोत्थि तम्
क्ति भि स्ता या मा
तिसृ भि र्यक्ष पुं वः