७.१६.११

नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम् ।
दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ॥

पदच्छेदः

नन्दीश्वरम्नन्दीश्वर (२.१)
अथापश्यद्अथ (अव्ययः)–अपश्यत् (√पश् लङ् प्र.पु. एक.)
अविदूरस्थितंअविदूर–स्थित (√स्था + क्त, २.१)
प्रभुम्प्रभु (२.१)
दीप्तंदीप्त (√दीप् + क्त, २.१)
शूलम्शूल (२.१)
अवष्टभ्यअवष्टभ्य (√अव-स्तम्भ् + ल्यप्)
द्वितीयम्द्वितीय (२.१)
इवइव (अव्ययः)
शंकरम्शंकर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्दीश्व थाश्य
वि दूस्थि तंप्र भुम्
दी प्तं शू ष्टभ्य
द्वि तीमि शं रम्