७.१६.२७

यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि ॥

पदच्छेदः

यस्माल्लोकत्रयंयस्मात् (अव्ययः)–लोकत्रय (१.१)
त्वेतद्तु (अव्ययः)–एतद् (१.१)
रावितंरावित (√रावय् + क्त, १.१)
भयम्भय (२.१)
आगतम्आगत (√आ-गम् + क्त, १.१)
तस्मात्तस्मात् (अव्ययः)
त्वंत्वद् (१.१)
रावणोरावण (१.१)
नामनाम (अव्ययः)
नाम्नानामन् (३.१)
तेनतद् (३.१)
भविष्यसिभविष्यसि (√भू लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा ल्लोत्र यं त्वे
द्रावि तं मा तम्
स्मा त्त्वं रा णो ना
ना म्ना ते विष्यसि