७.१६.२८

देवता मानुषा यक्षा ये चान्ये जगतीतले ।
एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥

M N Dutt

And deities and men, Yakşas and others living on earth shall call you Rāvana terror to creatures,

पदच्छेदः

देवतादेवता (१.३)
मानुषामानुष (१.३)
यक्षायक्ष (१.३)
येयद् (१.३)
चान्ये (अव्ययः)–अन्य (१.३)
जगतीतलेजगती–तल (७.१)
एवंएवम् (अव्ययः)
त्वाम्त्वद् (२.१)
अभिधास्यन्तिअभिधास्यन्ति (√अभि-धा लृट् प्र.पु. बहु.)
रावणंरावण (२.१)
लोकरावणम्लोक–रावण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे ता मानु षा क्षा
ये चा न्ये ती ले
वं त्वाभि धा स्यन्ति
रा णं लो रा णम्