७.१७.१६

एतत्ते सर्वमाख्यातं मया राक्षसपुंगव ।
आश्रितां विद्धि मां धर्मं नारायणपतीच्छया ॥

पदच्छेदः

एतत्एतद् (१.१)
तेत्वद् (४.१)
सर्वम्सर्व (१.१)
आख्यातंआख्यात (√आ-ख्या + क्त, १.१)
मयामद् (३.१)
राक्षसपुंगवराक्षस–पुंगव (८.१)
आश्रितांआश्रित (√आ-श्रि + क्त, २.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
मांमद् (२.१)
धर्मंधर्म (२.१)
नारायणपतीच्छयानारायण–पति–इच्छा (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्तेर्व मा ख्या तं
या राक्ष पुं
श्रि तां विद्धि मां र्मं
ना रा तीच्छ या