७.१८.१०

ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत् ।
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ॥

पदच्छेदः

ततोततस् (अव्ययः)
मरुत्तोमरुत्त (१.१)
नृपतिस्तंनृपति (१.१)–तद् (२.१)
राक्षसम्राक्षस (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
धन्यःधन्य (१.१)
खलुखलु (अव्ययः)
भवान्भवत् (१.१)
येनयद् (३.१)
ज्येष्ठोज्येष्ठ (१.१)
भ्राताभ्रातृ (१.१)
रणेरण (७.१)
जितःजित (√जि + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो रु त्तोनृति
स्तं राक्ष थाब्र वीत्
न्यःलु वा न्ये
ज्ये ष्ठो भ्रा ता णेजि तः