७.१८.२०

हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।
प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम ॥

पदच्छेदः

हर्षात्हर्ष (५.१)
तदाब्रवीद्तदा (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
इन्द्रोइन्द्र (१.१)
मयूरंमयूर (२.१)
नीलबर्हिणम्नील–बर्हिण (२.१)
प्रीतोप्रीत (√प्री + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
तवत्वद् (६.१)
धर्मज्ञधर्म–ज्ञ (१.१)
उपकाराद्उपकार (५.१)
विहंगमविहंगम (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्षात्त दाब्र वी दि न्द्रो
यू रं नीर्हि णम्
प्री तोऽस्मि र्मज्ञ
का राद्वि हं