७.१९.१०

नागानां बहुसाहस्रं वाजिनामयुतं तथा ।
महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् ॥

पदच्छेदः

नागानांनाग (६.३)
बहुसाहस्रंबहु–साहस्र (१.१)
वाजिनाम्वाजिन् (६.३)
अयुतंअयुत (१.१)
तथातथा (अव्ययः)
महींमही (२.१)
संछाद्यसंछाद्य (√सम्-छादय् + ल्यप्)
निष्क्रान्तंनिष्क्रान्त (√निः-क्रम् + क्त, १.१)
सपदातिरथं (अव्ययः)–पदाति–रथ (१.१)
क्षणात्क्षण (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना गा नांहु सा स्रं
वाजि नायु तं था
हीं सं छाद्य नि ष्क्रा न्तं
दाति थंक्ष णात्